Tuesday, December 16, 2025

Gita Mahatmya

 Gita Mahattwa 



2nd Chapter 


गीता शास्त्रमिदं पुण्यं 
यः पठेत्प्रयतः पुमान् ।
विष्णोः पद्रमवाप्नोति 
भयशोकादिवर्जितः ॥ 1 || 






गीताध्ययनशीलस्य 
प्राणायामपरस्य च ।
नैव सन्ति हि पापानि 
पूर्वजन्मकृतानि च ॥ 2 || 



मल निर्मोचनं पुंसांः 
जल स्नानं दिने दिने । 
सकृद गीताम्भसि स्त्रानं 
संसारमलनाशनम्ः ॥




गीता सुगीता कर्तव्या 
किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य 
मुखपद्माद् विनिःसृता ॥





भारतामृत सर्वस्वं 
वैष्णोर्वक्राद्विनिःसृतम् । 
गीता-गंगोदकं पीत्वा 
पुनर्जन्म न विद्यते ॥




सर्वोपनिषदो गावो 
दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोक्ता 
दुग्धं गीतामृतं महत्॥




एकं शास्त्रं देवकीपुत्रगीतम् 
एको देवो देवकीपुत्र एव ।
एको मंत्रस्तस्य नामानि यानि 
कर्माप्येकं तस्य देवस्य सेवा ॥




No comments:

Post a Comment